Saraswatee Maya Drishta | सरस्वती मया दृष्टा डाउनलोड करे मुफ्त मे पिडिएफ़ PDF
सरस्वती मया दृष्टा Lyrics
Saraswatee Maya Drishta .
सरस्वती प्रार्थना
सरस्वती मया दृष्टा वीणापुस्तकधारिणी ।
हंसवाहनसंयुक्ता विद्यादानं करोतु मे ॥ १॥
प्रथमं भारती नाम द्वितीयञ्च सरस्वती ।
तृतीयं शारदा देवी चतुर्थं हंसवाहिनी ॥ २ ॥
पञ्चमं तु जगन्माता षष्ठं वागीश्वरी तथा ।
सप्तमं चैव कौमारी अष्टमं वरदायिनी ॥ ३॥
नवमं बुद्धिदात्री च दशमं ब्रह्मचारिणी ।
एकादशं चन्द्रघण्टा द्वादशं भुवनेश्वरी ॥ ४॥
द्वादशै तानि नामानि त्रिसन्ध्यं य पठेन्नरः ।
जिह्वाग्रे वसते तस्य ब्रह्मरूपा सरस्वती ॥ ५॥
इति सरस्वती प्रार्थना